पवित्र स्तोत्रम्

॥ श्री नर्मदाष्टकम् ॥

श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्


१

सबिंदु सिन्धु सुस्खलत्तरङ्गभङ्गरंजितं द्विषत्सु पापजातजातकारिवारिसंयुतम् ।
कृतान्तदूतकालभूतभीतिहारिवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १ ॥

२

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं कलौ मलौघभारहारिसर्वतीर्थनायकम् ।
सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २ ॥

३

महागभीरनीरपूरपापधूतभूतलं ध्वनत्समस्तपातकारिदारितापदाचलम् ।
जगल्लये महाभये मृकण्डुसूनुहर्म्यदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥

४

गतं तदैव मे भयं त्वदम्बुवीक्षितं यदा मृकण्डुसूनुशौनकासुरारिसेवितं सदा ।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४ ॥

५

अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं सुलक्षणनीरतीरधीरपक्षिलक्षकूजितम् ।
वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५ ॥

६

सनत्कुमारनाचिकेतकश्यपादिषटपदैर्धृतं स्वकीयमानसेषु नारदादिषटपदैः ।
रविन्दुरन्तिदेवदेवराजकर्मशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६ ॥

७

अलक्षलक्षलक्षपापलक्षसारसायुधं ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।
विरिञ्चविष्णुशङ्करस्वकीयधामवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७ ॥

८

अहोऽमृतं स्वनं श्रुतं महेशकेशजातटे किरातसूतवाडवेषु पण्डिते शठे नटे ।
दुरन्तपापतापहारि सर्वजन्तुशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८ ॥

फलश्रुतिः

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा पठन्ति ते निरंतरं न यान्ति दुर्गतिं कदा ।
सुलभ्य देहदुर्लभं महेंशधामगौरवं पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९ ॥

Scroll to Top